-
भारतीयदर्शनस्य संस्कृतसाहित्यस्य प्रादेशिकभाषीयसाहित्यस्य च समग्रं वाङ्मयम् वृक्श्तुल्यम्। तस्य विस्तरः महान अस्ति। बद्धमूलः अयं वृक्शः अतः एव महान् वर्तते, सनातनः वर्तते, चिरञ्जीवी अपि वर्तते। एतस्य वृक्शस्य मूलम् अपरिवर्तनीयम् अस्ति। परन्तु नूतनं पल्लवम्, नूतनानि पुष्पाणि, नूतनानि फलानि च नित्यं जायन्ते। किं तत् मूलम् इति स्वाभाविकीं जिग्यासां देशविदेशेषु जनाः कुर्वन्ति। यः कोऽपि तत्र प्रयत्नपरः भवति सः सुफलं लभते एव। सः चिराय कृतार्थो भवति, कृतकृत्यः च भवति। किं तत् मूलम्। कः तस्य बोद्धा , का तस्य शाखा, कानि वा पुष्पाणि फलानि च। का तस्य छाया। कः तस्य सौरभः। के उपभोक्तारः। कतिविधाः ते सन्ति इति ईदृशं वैचित्र्यम् अस्य विषयस्य विषयः। परन्तु तस्य वृक्शस्य मूलं किम्। समग्रस्यापि अस्य विषयस्य तु उपन्यासः नैव सम्भवति। तथापि छात्राः यदि इतः किञ्चिदपि ग्यातुं शक्नुयुः तर्हि अस्माकं प्रयत्नः सफलः इति मन्यामहे।
भारतीयसमाजस्य मनोरञ्जनं जीवनं वैनन्दिनव्यवहारः धर्माचरणम् आध्यात्मिकता इति समग्रस्य मूलम् गौरवशाली वेदः एव। भारतीयचिन्तने वैदिकवाङ्मयस्य वैशिष्टयं सुविदतं समेषां वेदितवेदितव्यानाम्। वैदिकवाङ्मयस्य विभूतिः वास्तविकी वर्तते। इदं वाङ्मयं प्राचीनम्, समग्रपृथिवीव्यापि, अस्य परिमाणं विशालम् , अस्य वैभवं निरतिशयम् , अस्य सौन्दर्यगुणः अनन्यतुल्यः। महत् मौलिकं पुरातनं च इदं वाङ्मयम्। अत एव तत्र अस्माकम् अभिनिवेशः प्रवृत्तिः जिग्यासा श्रद्धा च वर्तन्ते। न केवलम् एतावन्मात्रम्। अन्यानि अपि निमित्तानि वैदिकवाङ्मयस्य अध्ययने विद्मार्थिनां कृते विशिषटाम् अभिरुचिं जनयन्ति। वेदस्य सम्यक् ग्यानस्य अभावे नैके धर्मसम्प्रदायाः मतानि आचाराः च प्रवर्तन्ते येषां प्रतिपाद्यं दुषटं शास्रविरुद्ध च वर्तते। समाजः धर्मविषये अत्यन्तम् अन्धश्रद्धालुः भवति। अन्धश्रद्धानिवारणायापि वेदस्याध्ययनं नितान्तम् आवश्यकम्। विग्यानस्याध्ययनम् उदपूरणाय। जीवनयात्रानिर्वाहाय। परन्तु जीवः कुतः आयाति, कुत्र गच्छति, तस्य सुखदुःखादीनां कारणानि कानि। इह लोकः परलोकः अस्ति वा न वा। पुनर्जन्म अस्ति वा न वा। यदि स्यात् तर्हि मर्त्येन किमपि कर्तव्यं न वा इति अयं समग्रो विषयः न विग्यानाधीनः। अयं तु धर्मधीनः। तस्यैव समग्रस्य धर्मस्य मूलं वेदः। अतः जीविकार्थम् विग्यानम् सुखदुःखनिर्णयाय इहपरलोकयात्रायै च वेदः इति सुष्ठु विभागः भवति। अतः वेदाध्ययनं सर्वेरपि सुतराम् कर्तव्यमेव।
Overview
Syllabus
-
COURSE LAYOUT
Week 1 वेदविषयप्रवेशः Week 2 वेदानां कालः, पाठप्रकाराः,मन्त्राणां च ऋषिच्छन्दोदेवताविनियोगाः Week 3 वेदभाष्यकाराः Week 4 वेदभाष्यपद्धतिः Week 5 वैदिकाख्यानं, दार्शनिकानां नये वेदविमर्शः च Week 6 वैदिकयागाः Week 7 वैदिकदेवता Week 8 सूर्यसूक्तं संज्ञानसूक्तं च Week 9 पूषन्-सूक्तम् उषस्सूक्तं च Week 10 वरुणसूक्तम् Week 11 यमसूक्तम् Week 12 शुनःशेपोपाख्यानम्- १ Week 13 शुनःशेपोपाख्यानम् - २ Week 14 शुनःशेपोपाख्यानम्- ३ Week 15 विश्वामित्रनदीसंवादः Week 16 अष्टाध्याय्याः प्रथमद्वितीयौ (१-२) अध्यायौ Week 17 अष्टाध्याय्याः तृतीयः (३) अध्यायः Week 18 अष्टाध्याय्याः तृतीयचतुर्थौ (३,४) अध्यायौ Week 19 अष्टाध्याय्याः चतुर्थः (४) अध्यायः Week 20 अष्टाध्याय्याः पञ्चमषष्ठौ (५,६) अध्यायौ Week 21 अष्टाध्याय्याः षष्ठसप्तमौ (६, ७) अध्यायौ Week 22 अष्टाध्याय्याः सप्तमः (७) अध्यायः Week 23 अष्टाध्याय्याः अष्टमः (८) अध्यायः- १ Week 24 अष्टाध्याय्याः अष्टमः (८) अध्यायः- २ Week 25 Revision Week 26 Revisio